Scene 1

Page 1

बर्नार्डः फ्रान्सिस्कश्चेति द्वारपालकौ प्रविशतः
  • बर्नार्डः --- तत्र कः?
  • फ्रान्सिस्कः --- नहि, त्वं कः? विरामय तथा स्वपरिचयं दद।
  • बर्नार्डः --- जयतु राजा।
  • फ्रान्सिस्कः --- बर्नार्डः किम्?
  • बर्नार्डः --- आम्।
  • फ्रान्सिस्कः --- यथासमयमागतवान्।
  • बर्नार्डः --- इदानीं द्वादशवादनं भविष्यति। गृहं गत्वा निद्रां कुरु, फ्रान्सिस्क।
  • फ्रान्सिस्कः --- मां गमयितुं कार्तज्ञं वितरामि। बहु शैत्यमस्ति। विषण्णोऽस्मि।
  • बर्नार्डः --- नक्तं तूष्णीं वा?
  • फ्रान्सिस्कः --- मूषबुक्कनमपि न श्रुतं मया।
  • बर्नार्डः --- तर्हि शुभरात्रिः। होरातियं मार्सेलं च पश्यसि चेत् त्वरितव्यमिति तौ निवेदय।
  • फ्रान्सिस्कः --- तयोरेव ध्वनिर्भवेत्। विरामः! तत्र कः ?
होरातियो मार्सेलश्च प्रविशतः

Page 2

  • होरातियः --- देशबन्धू स्वः
  • मार्सेलः --- डानिनरेशस्य सेवकावपि।
  • फ्रान्सिस्कः --- युवाभ्यामपि शुभरात्रिः।
  • मार्सेलः --- पुनर्मिलामः। तव स्थाने को नियुक्तः?
फ्रान्सिस्को निर्गच्छति
  • मार्सेलः --- नमस्ते बर्नार्ड।
  • बर्नार्डः --- नमस्ते होरातिय उपस्थितो वा?
  • होरातियः --- न्‍यूनाधिकः।
  • बर्नार्डः --- स्वागतं होरातिय। स्वागतं मार्सेलः।
  • मार्सेलः --- किम्? स पुनर्दृष्टो वा?
  • बर्नार्डः --- मया कोऽपि न दृष्टः।
  • मार्सेलः --- तदस्मद्भ्रम एवेति होरातियो वदति। तथा तदस्माभिर् द्विवारर्दृष्टस्य विषयेऽस्मिन् किमपि न विश्वसितुमिच्छति। तस्मादेवावयोः कार्यभार आगन्तुं स मया प्रार्थितो यतोहि तद्वेताल आगच्छति चेत् स अपि तद्वेतालं द्रष्टुं शक्नोति तथा तद्वेतलेन संभाष्टुं शक्नोति।
  • होरातियः --- जल्पनं मास्तु! न द्रक्ष्यते नाम।
Page 3
  • बर्नार्डः --- किञ्चिदुपविश। त्वयाविश्वसनीयां रात्रिद्वयदृष्टविषयणीं कथां त्वां पुनर्व्याख्यावः।
  • होरातियः --- अस्तु। उपविशाम तथा बर्नार्डस्य कथां शृण्वाव।
  • बर्नार्डः --- गतरात्रावेकवादने यदा ध्रुवनक्षत्रपश्चिमस्थिते तन्नक्षत्रं सम्प्रतिप्रदीप्तस्थानं प्रत्यगच्छत् तदा मार्सेलोऽहं च -
वेतालः प्रविशति
  • मार्सेलः --- तूष्णीं तिष्ठ! स पुनरागतः।
  • बर्नार्डः --- मृतनृपसादृश्यमुखमेव।
  • मार्सेलः --- (होरातियं प्रति) त्वं विद्यासम्पन्नः खलु? तं वेतालं किञ्चित् कथय!
  • बर्नार्डः --- मृतराजेव दृश्यते खलु, होरातिय?
  • होरातियः --- भृशमेव। भयास्पदमस्ति।
  • बर्नार्डः --- तद्वेतालः सम्भाषणमिच्छति।
  • मार्सेलः --- होरातिय, किमपि तं पृच्छतु! 
  • बर्नार्डः --- त्वं किमेव? उरुरात्रिकाले युद्धसज्जडानिनृपवदीदृशाटनम्! त्वामादिशामि! समाधानं देहि!
Page 4
  • मार्सेलः --- तमकोपय इति दृश्यते मार्सेल
  • बर्नार्डः --- द्रष्टव्यम्। अपगच्छन्नस्ति।
  • मार्सेलः --- तिष्ठ। कथय। कथय नाम। मदादेशोऽस्ति।
वेतालः निर्गच्छति
  • मार्सेलः ---निर्गतवान्। अधुनोत्तरं न गमिष्यति।
  • बर्नार्डः --- किं भवति, होरातिय? पाण्डुमुखः कम्पमानश्च दृश्यसे। इदं भ्रमणं नास्तीत्यधुना स्वीकरोषि खलु? त्वद्विचारः कः?
  • होरातियः --- देवसंनिधौ शपथं करोमि। स्वनेत्राभ्यां सह नापश्यं चेत् कदापि न व्यश्वसिष्यम्।
  • मार्सेलः --- नरेश इव दृश्यते किल? 
  • होरातियः --- आम्! यावत् पर्यन्तं त्वं त्वत्सदृशो दृश्यसे। कवचमिदं हि धृत्वा नोरदेशराज्ञा सह युद्धं कृतवान् पुरा। अधुना या सभृकुटी वेतालस्य मुख आसीत् ता पोलानामुपर्याक्रमणसमये दृष्टा यदाछक्रयानेषु हिमस्योपरि प्रयाणं कृत्वान् राजा। विस्मयकार्येव।
  • अस्यां होरायामेव पूर्वं द्विवारं तां सैन्यवेशभूषां धृत्वास्मत्कार्यभारस्य भङ्गं कृतवान् सः। 

    Comments